|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.18. अध्यायः 018
Mahabharata - Udyoga Parva - Chapter Topics
इन्द्रेण पुनर्देवलोकमेत्य त्रैलोक्यराज्यपालनम् ॥ 1 ॥ शल्येन इन्द्रवत्तान्तकथनपूर्वकं युधिष्ठिरादीनाश्वास्य पुनर्दुर्योधनसमीपगमनम् ॥ 2 ॥
Mahabharata - Udyoga Parva - Chapter Text
शल्य उवाच। 5-18-0x(3411)(32253)
ततः शक्रः स्तूयमानो गन्धर्वाप्सरसां गणैः।
ऐरावतं समारुह्य द्विपेन्द्रं लक्षणैर्युतम् ॥ 5-18-1(32254)
पावकः सुमहातेजा महर्षिश्च बृहस्पतिः।
यमश्च वरुणश्चैव कुबेरश्च धनेश्वरः ॥ 5-18-2(32255)
सर्वैर्देवैः परिवृतः शक्रो वृत्रनिषूदनः ।
गन्धर्वैरप्सरोभिश्च यातस्त्रिभुवनं प्रभुः ॥ 5-18-3(32256)
स समेत्य महेन्द्राण्या देवराजः शतक्रतुः।
मुदा परमया युक्तः पालयामास देवराट् ॥ 5-18-4(32257)
ततः स भगवांस्तत्र अङ्गिराः समदृश्यत।
अथर्ववेदमन्त्रैश्च देवेन्द्रं समपूजयत्॥ 5-18-5(32258)
ततस्तु भगवानिन्द्रः संहृष्टः समपद्यत।
वरं च प्रददौ तस्मै अथर्वाङ्गिरसे तदा॥ 5-18-6(32259)
अथर्वाङ्गिरसं नाम वेदेऽस्मिन्वै भविष्यति।
उदाहरणमेतद्धि यज्ञभागं च लप्स्यसे। 5-18-7(32260)
एवं संपूज्य भगवानथर्वाङ्गिरसं तदा।
व्यसर्जयन्महाराज देवराजः शतक्रतुः ॥ 5-18-8(32261)
संपूज्य सर्वांस्त्रिदशानृषींश्चापि तपोधनान्।
इन्द्रः प्रमुदितो राजन्धर्मेणापालयत्प्रजाः ॥ 5-18-9(32262)
एवं दुःखमनुप्राप्तमिन्द्रेण सह भार्यया।
अज्ञातवासश्च कृतः शत्रूणां वधकाङ्क्षया ॥ 5-18-10(32263)
नात्र मन्युस्त्वया कार्यो यत्क्लिष्टोऽसि महावने।
द्रौपद्या सह राजेन्द्र भ्रातृभिश्च महात्मभिः ॥ 5-18-11(32264)
एवं त्वमपि राजेन्द्र राज्यं प्राप्स्यसि भारत।
वृत्रं हत्वा यथा प्राप्तः शक्रः कौरवनन्दन ॥ 5-18-12(32265)
दुराचारश्च नहुषो ब्रह्वद्विट् पापचेतनः।
अगस्त्यशापाभिहतो विनष्टः शाश्वतीः समाः ॥ 5-18-13(32266)
एवं तव दुरात्मानः शत्रवः शत्रुसूदन ।
क्षिप्रं नाशं गमिष्यन्ति कर्णदुर्योधनादयः ॥ 5-18-14(32267)
ततः सागरपर्यन्तां भोक्ष्यसे मेदिनीमिमाम्।
भ्रातृभिः सहितो वीर द्रौपद्या च सहानया ॥ 5-18-15(32268)
उपाख्यानमिदं शक्रविजयं वेदसंमितम् ।
राज्ञा व्यूढेष्वनीकेषु श्रोतव्यं जयमिच्छता। 5-18-16(32269)
तस्मात्संश्रावयामि त्वां विजयं जयतां वर।
संस्तूयमाना वर्धन्ते महात्मानो युधिष्ठिर॥ 5-18-17(32270)
क्षत्रियाणामभावोयं युधिष्ठिर महात्मनाम्।
दुर्योधनापराधेन भीमार्जुनबलेन च॥
सङ्ग्रामे संक्षयो घोरो भविष्यत्यचिरादिव ॥ 5-18-18(32271)
आख्यानमिन्द्रविजयं य इदं नियतः पठेत्।
धूतपाप्मा जितस्वर्गः परत्रेह च मोदते ॥ 5-18-19(32272)
न चारिजं भयं तस्य नापुत्रो वा भवेन्नरः।
नापदं प्राप्नुयात्कांचिद्दीर्घमायुश्च विन्दति।
सर्वत्र दयमाप्नोति न कदाचित्पराजयम् ॥ 5-18-20(32273)
वैशम्पायन उवाच। 5-18-21x(3412)
एवमाश्वासितो राजा शल्येन भरतर्षभ ।
पूजयामास विधिवच्छल्यं धर्मभृतां वरः ॥ 5-18-21(32274)
श्रुत्वा तु शल्यवचनं कुन्तीपुत्रो युधिष्ठिरः।
प्रत्युवाच महाबाहुर्मद्रराजमिदं वचः ॥ 5-18-22(32275)
भवान्कर्णस्य सारथ्यं करिष्यति न संशयः।
तत्र तेजोवधः कार्यः कर्णस्यार्जुनसंस्तवैः ॥ 5-18-23(32276)
शल्य उवाच। 5-18-24x(3413)
एवमेतत्करिष्यामि यथा मां संप्रभाषसे।
यच्चान्यदपि शक्ष्यामि तत्करिष्याम्यहं तव ॥ 5-18-24(32277)
वैशम्पायन उवाच। 5-18-25x(3414)
ततस्त्वामन्त्र्य कौन्तेयाञ्छल्यो मद्राधिपस्तदा।
जगाम सबलः श्रीमान्दुर्योधनमरिन्दम ॥ ॥ 5-18-25(32278)
इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्योगपर्वणि अष्टादशोऽध्यायः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|